Aranyakanda, Sarga 70, Verse 1
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ
तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान्
वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ
कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ
पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः
तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः
पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः
तामुवाच ततो रामः श्रमणीं संशितव्रताम्
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः
कच्चित्ते नियतः कोप आहारश्च तपोधने
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्
कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि
रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः
इतस्ते दिवमारूढा यानहं पर्यचारिषम्
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः
आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः
तं च दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि
मया तु विविधं वन्यं संचितं पुरुषर्षभ
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम्
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्
दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे
एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्
शबरी दर्शयामास तावुभौ तद्वनं महत्
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्
मतङ्गवनमित्येव विश्रुतं रघुनन्दन
इह ते भावितात्मानो गुरवो मे महाद्युते
जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः
तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम
द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः
चिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान्
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह
अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम्
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्
मुनीनामाश्रंमो येषामहं च परिचारिणी
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः
अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत्
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः
तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना