Valmiki Ramayana

Aranyakanda, Sarga 69

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 1

निदर्शयित्वा रामाय सीतायाः प्रतिपादने

वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 2

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः

प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 3

जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः

अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 4

तानारुह्याथ वा भूमौ पातयित्वा च तान्बलात्

फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 5

चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम्

ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 6

अशर्करामविभ्रंशां समतीर्थमशैवलाम्

राम संजातवालूकां कमलोत्पलशोभिताम्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 7

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव

वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 8

नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः

घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 9

रोहितान्वक्रतुण्डांश्च नलमीनांश्च राघव

पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 10

निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्

तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 11

भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये

पद्मगन्धि शिवं वारि सुखशीतमनामयम्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 12

उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्

अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 13

स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः

अपां लोभादुपावृत्तान्वृषभानिव नर्दतः

रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 14

सायाह्ने विचरन्राम विटपी माल्यधारिणः

शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 15

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्

उत्पलानि च फुल्लानि पङ्कजानि च राघव

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 16

न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः

मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 17

तेषां भाराभितप्तानां वन्यमाहरतां गुरोः

ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 18

तानि माल्यानि जातानि मुनीनां तपसा तदा

स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 19

तेषामद्यापि तत्रैव दृश्यते परिचारिणी

श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 20

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्

दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 21

ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्

आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 22

न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्

ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 23

तस्मिन्नन्दनसंकाशे देवारण्योपमे वने

नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 24

ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः

सुदुःखारोहणो नाम शिशुनागाभिरक्षितः

उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 25

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि

यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 26

न त्वेनं विषमाचारः पापकर्माधिरोहति

तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 27

ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान्

क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 28

सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः

प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 29

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्

निवृत्ताः संविगाहन्ते वनानि वनगोचराः

Valmiki Ramayana

Aranyakanda, Sarga 69, Verse 30

राम तस्य तु शैलस्य महती शोभते गुहा

शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्