Valmiki Ramayana

Aranyakanda, Sarga 67

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 1

पुरा राम महाबाहो महाबलपराक्रम

रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्

यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 2

सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्

ऋषीन्वनगतान्राम त्रासयामि ततस्ततः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 3

ततः स्थूलशिरा नाम महर्षिः कोपितो मया

संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 4

तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना

एतदेव नृशंसं ते रूपमस्तु विगर्हितम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 5

स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति

अभिशापकृतस्येति तेनेदं भाषितं वचः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 6

यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने

तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 7

श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण

इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 8

अहं हि तपसोग्रेण पितामहमतोषयम्

दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 9

दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति

इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 10

तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा

सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 11

स मया याच्यमानः सन्नानयद्यमसादनम्

पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 12

अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः

वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 13

एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ

प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 14

सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्

सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 15

स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः

छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 16

स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव

शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 17

अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ

मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 18

एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः

इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 19

रावणेन हृता सीता मम भार्या यशस्विनी

निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 20

नाममात्रं तु जानामि न रूपं तस्य रक्षसः

निवासं वा प्रभावं वा वयं तस्य न विद्महे

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 21

शोकार्तानामनाथानामेवं विपरिधावताम्

कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 22

काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः

भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 23

स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता

कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 24

एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्

प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 25

दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्

यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 26

अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो

राक्षसं तं महावीर्यं सीता येन हृता तव

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 27

विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव

स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 28

किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः

तावन्मामवटे क्षिप्त्वा दह राम यथाविधि

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 29

दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन

वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं

Valmiki Ramayana

Aranyakanda, Sarga 67, Verse 30

तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव

कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः