Aranyakanda, Sarga 66, Verse 1
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ
आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा
उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः
तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः
खं च गां च दिशश्चैव नादयञ्जलदो यथा
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः
शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्
अस्य देवप्रभावस्य वसतो विजने वने
रक्षसापहृता भार्या यामिच्छन्ताविहागतौ
त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः
उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन्
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा
तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव