Aranyakanda, Sarga 64, Verse 1
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्
सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्
सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत्
ममायं नूनमर्थेषु यतमानो विहंगमः
राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान्
अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते
तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः
किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्
सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्
वाचातिसन्नया रामं जटायुरिदमब्रवीत्
सा हृता राक्षसेन्द्रेण रावणेन विहायसा
मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्
परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः
सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव
पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्
येन याति मुहूर्तेन सीतामादाय रावणः
विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते
विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत्
झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे
असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः
आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च
इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा
विक्षिप्य च शरीरं स्वं पपात धरणीतले
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्
अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा
अनेकवार्षिको यस्तु चिरकालं समुत्थितः
सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे
सीतामभ्यवपन्नो वै रावणेन बलीयसा
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्
मम हेतोरयं प्राणान्मुमोच पतगेश्वरः
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि
सीताहरणजं दुःखं न मे सौम्य तथागतम्
यथा विनाशो गृध्रस्य मत्कृते च परंतप
राजा दशरथः श्रीमान्यथा मम मया यशाः
पूजनीयश्च मान्यश्च तथायं पतगेश्वरः
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्
नाथं पतगलोकस्य चितामारोपयाम्यहम्
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः
अपरावर्तिनां या च या च भूमिप्रदायिनाम्
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज