Aranyakanda, Sarga 63, Verse 1
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्
सारग्राही महासारं प्रतिजग्राह राघवः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्
सारग्राही महासारं प्रतिजग्राह राघवः
संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण
केनोपायेन पश्येयं सीतामिति विचिन्तय
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च
गुहाश्च विविधा घोरा नानामृगगणाकुलाः
आवासाः किंनराणां च गन्धर्वभवनानि च
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि
त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्
अनेन सीता वैदेही भक्षिता नात्र संशयः
गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्
एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः
इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम्
क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्
तं दीनदीनया वाचा सफेनं रुधिरं वमन्
अभ्यभाषत पक्षी तु रामं दशरथात्मजम्
यामोषधिमिवायुष्मन्नन्वेषसि महावने
सा देवी मम च प्राणा रावणेनोभयं हृतम्
त्वया विरहिता देवी लक्ष्मणेन च राघव
ह्रियमाणा मया दृष्टा रावणेन बलीयसा
सीतामभ्यवपन्नोऽहं रावणश्च रणे मया
विध्वंसितरथच्छत्रः पातितो धरणीतले
एतदस्य धनुर्भग्नमेतदस्य शरावरम्
अयमस्य रणे राम भग्नः सांग्रामिको रथः
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः
सीतामादाय वैदेहीमुत्पपात विहायसं
रक्षसा निहतं पूर्व्म न मां हन्तुं त्वमर्हसि
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्
गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः
एकमेकायने दुर्गे निःश्वसन्तं कथंचन
समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्
राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्
संपूर्णमपि चेदद्य प्रतरेयं महोदधिम्
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे
येनेयं महती प्राप्ता मया व्यसनवागुरा
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः
शेते विनिहतो भूमौ मम भाग्यविपर्ययात्
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः
जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्
निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः
क्व मैथिलि प्राणसमा ममेति; विमुच्य वाचं निपपात भूमौ