Valmiki Ramayana

Aranyakanda, Sarga 61

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 1

तप्यमानं तथा रामं सीताहरणकर्शितम्

लोकानामभवे युक्तं साम्वर्तकमिवानलम्

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 2

वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः

हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 3

अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः

अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 4

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः

न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 5

चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा

एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 6

न तु जानामि कस्यायं भग्नः सांग्रामिको रथः

केन वा कस्य वा हेतोः सायुधः सपरिच्छदः

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 7

खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः

देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 8

एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर

न हि वृत्तं हि पश्यामि बलस्य महतः पदम्

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 9

नैकस्य तु कृते लोकान्विनाशयितुमर्हसि

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 10

सदा त्वं सर्वभूतानां शरण्यः परमा गतिः

को नु दारप्रणाशं ते साधु मन्येत राघव

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 11

सरितः सागराः शैला देवगन्धर्वदानवाः

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 12

येन राजन्हृता सीता तमन्वेषितुमर्हसि

मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 13

समुद्रं च विचेष्यामः पर्वतांश्च वनानि च

गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 14

देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 15

न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः

कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि

Valmiki Ramayana

Aranyakanda, Sarga 61, Verse 16

शीलेन साम्ना विनयेन सीतां; नयेन न प्राप्स्यसि चेन्नरेन्द्र

ततः समुत्सादय हेमपुङ्खै;र्महेन्द्रवज्रप्रतिमैः शरौघैः