Aranyakanda, Sarga 60, Verse 1
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्यानयितुं गता
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्यानयितुं गता
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी
न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः
रामः समभिचक्राम स्वयं गोदावरीं नदीम्
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि
न तां शशंसू रामाय तथा गोदावरी नदी
ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति
न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्
निराशस्तु तया नद्या सीताया दर्शने कृतः
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
मातरं चैव वैदेह्या विना तामहमप्रियम्
या मे राज्यविहीनस्य वने वन्येन जीवतः
सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्
सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते
एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ
वसुंधरायां पतितं पुष्पमार्गमपश्यताम्
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः
अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण
अपिनद्धानि वैदेह्या मया दत्तानि कानने
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
असेव्यः सततं चैव निस्तृणद्रुमपल्लवः
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
भूषणानां हि सौमित्रे माल्यानि विविधानि च
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति
तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह
मुक्तामणिचितं चेदं तपनीयविभूषितम्
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम्