Aranyakanda, Sarga 56, Verse 1
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः
राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्
क्व सा प्राणसहाया मे सीता सुरसुतोपमा
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण
विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम
कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि
कच्चित्सकामा सुखिता कैकेयी सा भविष्यति
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी
उपस्थास्यति कौसल्या कच्चिन्सौम्य न कैकयीम्
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः
सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण
यदि मामाश्रमगतं वैदेही नाभिभाषते
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्
श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः
तैः सीता निहता घोरैर्भविष्यति न संशयः
अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन
किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्
इति सीतां वरारोहां चिन्तयन्नेव राघवः
आजगाम जनस्थानं त्वरया सहलक्ष्मणः
विगर्हमाणोऽनुजमार्तरूपं; क्षुधा श्रमाच्चैव पिपासया च
विनिःश्वसञ्शुष्कमुखो विषण्णः; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्
स्वमाश्रमं संप्रविगाह्य वीरो; विहारदेशाननुसृत्य कांश्चित्
एतत्तदित्येव निवासभूमौ; प्रहृष्टरोमा व्यथितो बभूव