Valmiki Ramayana

Aranyakanda, Sarga 55

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 1

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्

निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 2

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्

क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 3

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्

चिन्तयामास गोमायोः स्वरेण परिशङ्कितः

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 4

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 5

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्

विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 6

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्

तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 7

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः

काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 8

दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः

हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार ह

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 9

अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने

जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः

निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 10

इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिःस्वनम्

आत्मनश्चापनयनं मृगरूपेण रक्षसा

आजगाम जनस्थानं राघवः परिशङ्कितः

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 11

तं दीनमानसं दीनमासेदुर्मृगपक्षिणः

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 12

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः

ततो लक्षणमायान्तं ददर्श विगतप्रभम्

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 13

ततोऽविदूरे रामेण समीयाय स लक्ष्मणः

विषण्णः स विषण्णेन दुःखितो दुःखभागिना

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 14

संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम्

विहाय सीतां विजने वने राक्षससेविते

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 15

गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः

उवाच मधुरोदर्कमिदं परुषमार्तवत्

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 16

अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम्

सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 17

न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा

विनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 18

अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे

अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 19

इदं हि रक्षोमृगसंनिकाशं; प्रलोभ्य मां दूरमनुप्रयातम्

हतं कथंचिन्महता श्रमेण; स राक्षसोऽभून्म्रियमाण एव

Valmiki Ramayana

Aranyakanda, Sarga 55, Verse 20

मनश्च मे दीनमिहाप्रहृष्टं; चक्षुश्च सव्यं कुरुते विकारम्

असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा