Aranyakanda, Sarga 54, Verse 1
सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
राजा दशरथो नाम धर्मसेतुरिवाचलः
सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः
दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः
शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः
असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे
स ते जीवितशेषस्य राघवोऽन्तकरो बली
पशोर्यूपगतस्येव जीवितं तव दुर्लभम्
यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा
रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम्
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा
सागरं शोषयेद्वापि स सीतां मोचयेदिह
गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति
न ते पापमिदं कर्म सुखोदर्कं भविष्यति
याहं नीता विना भावं पतिपार्श्वात्त्वया वनात्
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः
निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे
यदा विनाशो भूतानां दृश्यते कालचोदितः
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः
मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम
आत्मनो राक्षसानां च वधायान्तःपुरस्य च
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता
द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम्
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः
एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः
रावणं मैथिली तत्र पुनर्नोवाच किंचन
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः
शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि
कालेनानेन नाभ्येषि यदि मां चारुहासिनि
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्
शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः
दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः
वचनादेव तास्तस्य विकृता घोरदर्शनाः
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः
प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्
अशोकवनिकामध्ये मैथिली नीयतामिति
तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्
आनयध्वं वशं सर्वा वन्यां गजवधूमिव
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः
अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम्
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्
सर्वकालमदैश्चापि द्विजैः समुपसेविताम्