Aranyakanda, Sarga 53, Verse 1
संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान्
आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान्
आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत
स चिन्तयानो वैदेहीं कामबाणसमर्पितः
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः
अपश्यद्राक्षसीमध्ये सीतां शोकपरायणम्
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्
अधोमुखमुखीं दीनामभ्येत्य च निशाचरः
तां तु शोकवशां दीनामवशां राक्षसाधिपः
स बलाद्दर्शयामास गृहं देवगृहोपमम्
हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम्
नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथा
वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्
सोपानं काञ्चनं चित्रमारुरोह तया सह
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः
हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः
सुधामणिविचित्राणि भूमिभागानि सर्वशः
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः
रावणो दर्शयामास सीतां शोकपरायणाम्
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्
उवाच वाक्यं पापात्मा रावणो जनकात्मजाम्
दशराक्षसकोट्यश्च द्वाविंशतिरथापराः
वर्जयित्वा जरा वृद्धान्बालांश्च रजनीचरान्
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्
सहस्रमेकमेकस्य मम कार्यपुरःसरम्
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्
जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी
बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः
तासां त्वमीश्वरी सीते मम भार्या भव प्रिये
साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम
भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना
नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा
किं करिष्यसि रामेण मानुषेणाल्पतेजसा
भजस्व सीते मामेव भर्ताहं सदृशस्तव
यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह
दर्शने मा कृथा बुद्धिं राघवस्य वरानने
कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः
न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः
दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम्
त्रयाणामपि लोकानां न तं पश्यामि शोभने
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम्
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्
यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि
इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
भूषणानि च मुख्यानि तानि सेव मया सह
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे
विमानं रमणीयं च तद्विमानं मनोजवम्
तत्र सीते मया सार्धं विहरस्व यथासुखम्
वदनं पद्मसंकाशं विमलं चारुदर्शनम्