Aranyakanda, Sarga 49, Verse 1
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः
स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने
बभूव वातोद्धतयोर्मेघयोर्गगने यथा
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः
स तानि शरजालानि गृध्रः पत्ररथेश्वरः
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः
चकार बहुधा गात्रे व्रणान्पतगसत्तमः
अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान्
मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्
अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत्
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्
पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः
काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान्
तांश्चास्य जवसंपन्नाञ्जघान समरे बली
वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम्
मणिहेमविचित्राङ्गं बभञ्ज च महारथम्
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह
स भग्नधन्वा विरथो हताश्वो हतसारथिः
अङ्केनादाय वैदेहीं पपात भुवि रावणः
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्
साधु साध्विति भूतानि गृध्रराजमपूजयन्
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्
गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत्
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः
विषपानं पिबस्येतत्पिपासित इवोदकम्
अनुबन्धमजानन्तः कर्मणामविचक्षणाः
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे
वधाय बडिशं गृह्य सामिषं जलजो यथा
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्
तस्कराचरितो मार्गो नैष वीरनिषेवितः
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्
पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान्
कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः
अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम्
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन्
केशांश्चोत्पाटयामास नखपक्षमुखायुधः