Aranyakanda, Sarga 47, Verse 1
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम्
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः
आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः
संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः
स परिव्राजकच्छद्म महाकायो विहाय तत्
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
स तामसितकेशान्तां भास्करस्य प्रभामिव
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि
मामाश्रय वरारोहे तवाहं सदृशः पतिः
मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम्
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्
अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्
जग्राह रावणः सीतां बुधः खे रोहिणीमिव
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्
प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः
स च मायामयो दिव्यः खरयुक्तः खरस्वनः
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः
अङ्केनादाय वैदेहीं रथमारोपयत्तदा
सा गृहीतातिचुक्रोश रावणेन यशस्विनी
रामेति सीता दुःखार्ता रामं दूरगतं वने
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव
विवेष्टमानामादाय उत्पपाथाथ रावणः
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक
ह्रियमाणां न जानीषे रक्षसा कामरूपिणा
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्
ह्रियमाणामधर्मेण मां राघव न पश्यसि
ननु नामाविनीतानां विनेतासि परंतप
कथमेवंविधं पापं न त्वं शाधि हि रावणम्
ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्
कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये
स कर्म कृतवानेतत्कालोपहतचेतनः
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह
ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः
आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः