Aranyakanda, Sarga 45, Verse 1
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
परिव्राजकरूपेण शशंसात्मानमात्मना
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
परिव्राजकरूपेण शशंसात्मानमात्मना
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्
दुहिता जनकस्याहं मैथिलस्य महात्मनः
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम
संवत्सरं चाध्युषिता राघवस्य निवेशने
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी
ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम्
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने
कैकेयी नाम भर्तारं ममार्या याचते वरम्
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदाचन
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा
मम भर्ता महातेजा वयसा पञ्चविंशकः
रामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिः
विशालाक्षो महाबाहुः सर्वभूतहिते रतः
अभिषेकाय तु पितुः समीपं राममागतम्
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
भरताय प्रदातव्यमिदं राज्यमकण्टकम्
त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्
तथेत्युवाच तां रामः कैकेयीमकुतोभयः
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः
दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम्
एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम्
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह
ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः
येन वित्रासिता लोकाः सदेवासुरपन्नगाः
अहं स रावणो नाम सीते रक्षोगणेश्वरः
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः
सर्वासामेव भद्रं ते ममाग्रमहिषी भव
लङ्का नाम समुद्रस्य मध्ये मम महापुरी
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि
तत्र सीते मया सार्धं वनेषु विचरिष्यसि
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि
पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः
सीते परिचरिष्यन्ति भार्या भवसि मे यदि
रावणेनैवमुक्ता तु कुपिता जनकात्मजा
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्
महोदधिमिवाक्षोभ्यमहं राममनुव्रता
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्
नृसिंहं सिंहसंकाशमहं राममनुव्रता