Aranyakanda, Sarga 44, Verse 1
तया परुषमुक्तस्तु कुपितो राघवानुजः
स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
तया परुषमुक्तस्तु कुपितो राघवानुजः
स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः
अभिचक्राम वैदेहीं परिव्राजकरूपधृक्
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू
परिव्राजकरूपेण वैदेहीं समुपागमत्
तामाससादातिबलो भ्रातृभ्यां रहितां वने
रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः
तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम्
रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः
तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी
रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः
स पापो भव्यरूपेण तृणैः कूप इवावृतः
अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्
शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्
अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः
तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्
विभ्राजमानां वपुषा रावणः प्रशशंस ह
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि
कमलानां शुभां मालां पद्मिनीव च बिभ्रती
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके
विशालं जघनं पीनमूरू करिकरोपमौ
एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ
चारुस्मिते चारुदति चारुनेत्रे विलासिनि
मनो हरसि मे रामे नदीकूलमिवाम्भसा
करान्तमितमध्यासि सुकेशी संहतस्तनी
नैव देवी न गन्धर्वी न यक्षी न च किंनरी
नैवंरूपा मया नारी दृष्टपूर्वा महीतले
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि
राक्षसानामयं वासो घोराणां कामरूपिणाम्
प्रासादाग्र्याणि रम्याणि नगरोपवनानि च
संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया
वरं माल्यं वरं पानं वरं वस्त्रं च शोभने
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे
का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते
वसूनां वा वरारोहे देवता प्रतिभासि मे
नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः
राक्षसानामयं वासः कथं नु त्वमिहागता
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
कथमेका महारण्ये न बिभेषि वनानने
कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान्
एका चरसि कल्याणि घोरान्राक्षससेवितान्