Valmiki Ramayana

Aranyakanda, Sarga 43

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 1

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने

उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 2

न हि मे जीवितं स्थाने हृदयं वावतिष्ठते

क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 3

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि

तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 4

रक्षसां वशमापन्नं सिंहानामिव गोवृषम्

न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 5

तमुवाच ततस्तत्र कुपिता जनकात्मजा

सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 6

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे

इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 7

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते

तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 8

किं हि संशयमापन्ने तस्मिन्निह मया भवेत्

कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 9

इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम्

अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 10

देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु

राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 11

दानवेषु च घोरेषु न स विद्येत शोभने

यो रामं प्रतियुध्येत समरे वासवोपमम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 12

अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि

न त्वामस्मिन्वने हातुमुत्सहे राघवं विना

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 13

अनिवार्यं बलं तस्य बलैर्बलवतामपि

त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 14

हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम्

आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 15

न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः

गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 16

न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना

रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 17

कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः

खरस्य निधने देवि जनस्थानवधं प्रति

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 18

राक्षसा विधिना वाचो विसृजन्ति महावने

हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 19

लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना

अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 20

अनार्य करुणारम्भ नृशंस कुलपांसन

अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 21

नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत्

त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 22

सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि

मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 23

कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम्

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 24

समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः

रामं विना क्षणमपि न हि जीवामि भूतले

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 25

इत्युक्तः परुषं वाक्यं सीतया सोमहर्षणम्

अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 26

उत्तरं नोत्सहे वक्तुं दैवतं भवती मम

वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 27

स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते

विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 28

उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः

न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 29

धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे

स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्

Valmiki Ramayana

Aranyakanda, Sarga 43, Verse 30

गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने

रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः