Aranyakanda, Sarga 41, Verse 1
सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती
हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती
हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी
भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम्
तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने
अनेन निहता राम राजानः कामरूपिणा
अस्य मायाविदो मायामृगरूपमिदं कृतम्
भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम्
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव
जगत्यां जगतीनाथ मायैषा हि न संशयः
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता
उवाच सीता संहृष्टा छद्मना हृतचेतना
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः
मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा
ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथा
विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः
न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः
द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः
अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना
मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव
आश्चर्यभूतं भवति विस्मयं जनयिष्यति
समाप्तवनवासानां राज्यस्थानां च नः पुनः
अन्तःपुरविभूषार्थो मृग एष भविष्यति
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो
मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः
अजिनं नरशार्दूल रुचिरं मे भविष्यति
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
बभूव राघवस्यापि मनो विस्मयमागतम्
एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति
न वने नन्दनोद्देशे न चैत्ररथसंश्रये
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः
कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्
मांसहेतोरपि मृगान्विहारार्थं च धन्विनः
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने
धनानि व्यवसायेन विचीयन्ते महावने
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः