Aranyakanda, Sarga 40, Verse 1
एवमुक्त्वा तु परुषं मारीचो रावणं ततः
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्त्वा तु परुषं मारीचो रावणं ततः
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा
मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे
किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर
प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्
एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्
इदानीमसि मारीचः पूर्वमन्यो निशाचरः
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः
मया सह रथो युक्तः पिशाचवदनैः खरैः
ततो रावणमारीचौ विमानमिव तं रथम्
आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
ददर्श सहमरीचो रावणो राक्षसाधिपः
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्
एतद्रामाश्रमपदं दृश्यते कदलीवृतम्
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा
मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः
किंचिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः
मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः
क्षणेन राक्षसो जातो मृगः परमशोभनः
वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत्
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्
विचरन्गच्छते सम्यक्शाद्वलानि समन्ततः
रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः
विटपीनां किसलयान्भङ्क्त्वादन्विचचार ह
कदलीगृहकं गत्वा कर्णिकारानितस्ततः
समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा
राजीवचित्रपृष्ठः स विरराज महामृगः
रामाश्रमपदाभ्याशे विचचार यथासुखम्
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते
विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति
आश्रमद्वारमागम्य मृगयूथानि गच्छति
मृगयूथैरनुगतः पुनरेव निवर्तते
सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्
समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः
उपगम्य समाघ्राय विद्रवन्ति दिशो दश
राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्
तस्मिन्नेव ततः काले वैदेही शुभलोचना
कुसुमापचये व्यग्रा पादपानत्यवर्तत
कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा
कुसुमान्यपचिन्वन्ती चचार रुचिरानना
अनर्हारण्यवासस्य सा तं रत्नमयं मृगम्
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना
तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम्
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत