Valmiki Ramayana

Aranyakanda, Sarga 38

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 1

मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः

उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 2

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः

अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 3

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते

वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 4

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे

पापशीलस्य मूर्खस्य मानुषस्य विशेषतः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 5

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा

स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 6

अवश्यं तु मया तस्य संयुगे खरघातिनः

प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 7

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते

न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 8

दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि

अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 9

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता

उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 10

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्

उपचारेण युक्तं च वक्तव्यो वसुधाधिपः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 11

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते

नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 12

पञ्चरूपाणि राजानो धारयन्त्यमितौजसः

अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 13

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 14

अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम्

गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस

अस्मिंस्तु स भवान्कृत्ये साहाय्यं कर्तुमर्हति

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 15

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 16

त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया

आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 17

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्

आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 18

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस

राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 19

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्

लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 20

एतत्कार्यमवश्यं मे बलादपि करिष्यसि

राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते

Valmiki Ramayana

Aranyakanda, Sarga 38, Verse 21

आसाद्य तं जीवितसंशयस्ते; मृत्युर्ध्रुवो ह्यद्य मया विरुध्य

एतद्यथावत्परिगृह्य बुद्ध्या; यदत्र पथ्यं कुरु तत्तथा त्वम्