Valmiki Ramayana

Aranyakanda, Sarga 34

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 1

मारीच श्रूयतां तात वचनं मम भाषतः

आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 2

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम

दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 3

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः

अन्ये च बहवः शूरा लब्धलक्षा निशाचराः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 4

वसन्ति मन्नियोगेन अधिवासं च राक्षसः

बाधमाना महारण्ये मुनीन्ये धर्मचारिणः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 5

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 6

ते त्विदानीं जनस्थाने वसमाना महाबलाः

संगताः परमायत्ता रामेण सह संयुगे

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 7

तेन संजातरोषेण रामेण रणमूर्धनि

अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 8

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 9

खरश्च निहतः संख्ये दूषणश्च निपातितः

हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 10

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः

स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 11

अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः

त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 12

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्

कर्णनासापहारेण भगिनी मे विरूपिता

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 13

तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम्

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 14

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल

भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 15

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस

वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 16

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 17

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 18

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्

गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 19

ततस्तयोरपाये तु शून्ये सीतां यथासुखम्

निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 20

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते

विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 21

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः

शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च

Valmiki Ramayana

Aranyakanda, Sarga 34, Verse 22

स रावणं त्रस्तविषण्णचेता; महावने रामपराक्रमज्ञः

कृताञ्जलिस्तत्त्वमुवाच वाक्यं; हितं च तस्मै हितमात्मनश्च