Valmiki Ramayana

Aranyakanda, Sarga 33

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 1

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम्

सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 2

तत्कार्यमनुगम्याथ यथावदुपलभ्य च

दोषाणां च गुणानां च संप्रधार्य बलाबलम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 3

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः

स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 4

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः

सूतं संचोदयामास रथः संयुज्यतामिति

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 5

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः

रथं संयोजयामास तस्याभिमतमुत्तमम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 6

काञ्चनं रथमास्थाय कामगं रत्नभूषितम्

पिशाचवदनैर्युक्तं खरैः कनकभूषणैः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 7

मेघप्रतिमनादेन स तेन धनदानुजः

राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 8

स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः

स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 9

दशास्यो विंशतिभुजो दर्शनीय परिच्छदः

त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 10

कामगं रथमास्थाय शुशुभे राक्षसाधिपः

विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 11

सशैलं सागरानूपं वीर्यवानवलोकयन्

नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 12

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः

विशालैराश्रमपदैर्वेदिमद्भिः समावृतम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 13

कदल्याढकिसंबाधं नालिकेरोपशोभितम्

सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 14

अत्यन्तनियताहारैः शोभितं परमर्षिभिः

नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 15

जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम्

आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 16

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्

क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 17

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्

देवदानवसंघैश्च चरितं त्वमृताशिभिः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 18

हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्

वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 19

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च

तूर्यगीताभिजुष्टानि विमानानि समन्ततः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 20

तपसा जितलोकानां कामगान्यभिसंपतन्

गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 21

निर्यासरसमूलानां चन्दनानां सहस्रशः

वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 22

अगरूणां च मुख्यानां वनान्युपवनानि च

तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 23

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च

मुक्तानां च समूहानि शुष्यमाणानि तीरतः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 24

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा

काञ्चनानि च शैलानि राजतानि च सर्वशः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 25

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च

धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 26

हस्त्यश्वरथगाढानि नगराण्यवलोकयन्

तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 27

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 28

समन्ताद्यस्य ताः शाखाः शतयोजनमायताः

यस्य हस्तिनमादाय महाकायं च कच्चपम्

भक्षार्थं गरुडः शाखामाजगाम महाबलः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 29

तस्य तां सहसा शाखां भारेण पतगोत्तमः

सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः

Valmiki Ramayana

Aranyakanda, Sarga 33, Verse 30

तत्र वैखानसा माषा वालखिल्या मरीचिपाः

अजा बभूवुर्धूम्राश्च संगताः परमर्षयः