Aranyakanda, Sarga 32, Verse 1
ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः
कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः
किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम्
आयुधं किं च रामस्य निहता येन राक्षसाः
खरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता
ततो रामं यथान्यायमाख्यातुमुपचक्रमे
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः
कन्दर्पसमरूपश्च रामो दशरथात्मजः
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
दीप्तान्क्षिपति नाराचान्सर्पानिव महाविषान्
नाददानं शरान्घोरान्न मुञ्चन्तं महाबलम्
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः
इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः
रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः
एका कथंचिन्मुक्ताहं परिभूय महात्मना
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली
रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः
रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी
सीता नाम वरारोहा वैदेही तनुमध्यमा
नैव देवी न गन्धर्वा न यक्षी न च किंनरी
तथारूपा मया नारी दृष्टपूर्वा महीतले
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत्
अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात्
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि
तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्
भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि
यदि तस्यामभिप्रायो भार्यार्थे तव जायते
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम्
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर
क्रियतां निर्विशङ्केन वचनं मम राघव
निशम्य रामेण शरैरजिह्मगै;र्हताञ्जनस्थानगतान्निशाचरान्
खरं च बुद्ध्वा निहतं च दूषणं; त्वमद्य कृत्यं प्रतिपत्तुमर्हसि