Valmiki Ramayana

Aranyakanda, Sarga 31

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 1

ततः शूर्पणखा दीना रावणं लोकरावणम्

अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 2

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः

समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 3

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्

लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 4

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः

स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 5

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्

वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 6

ये न रक्षन्ति विषयमस्वाधीना नराधिपः

ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 7

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः

अयुक्तचारश्चपलः कथं राजा भविष्यसि

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 8

येषां चारश्च कोशश्च नयश्च जयतां वर

अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 9

यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः

चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 10

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्

स्वजनं च जनस्थानं हतं यो नावबुध्यसे

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 11

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

हतान्येकेन रामेण खरश्च सहदूषणः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 12

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः

धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 13

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण

विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 14

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्

व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 15

अतिमानिनमग्राह्यमात्मसंभावितं नरम्

क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 16

नानुतिष्ठति कार्याणि भयेषु न बिभेति च

क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 17

शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः

न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 18

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा

एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 19

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः

कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 20

नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा

व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 21

त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः

यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 22

परावमन्ता विषयेषु संगतो; नदेश कालप्रविभाग तत्त्ववित्

अयुक्तबुद्धिर्गुणदोषनिश्चये; विपन्नराज्यो न चिराद्विपत्स्यते

Valmiki Ramayana

Aranyakanda, Sarga 31, Verse 23

इति स्वदोषान्परिकीर्तितांस्तया; समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः

धनेन दर्पेण बलेन चान्वितो; विचिन्तयामास चिरं स रावणः