Valmiki Ramayana

Aranyakanda, Sarga 25

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 1

तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 2

प्रतिगृह्य च तद्वरं निमीलित इवर्षभः

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 3

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा

शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 4

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 5

वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 6

वज्राशनिसमस्पर्शं परगोपुरदारणम्

तं महोरगसंकाशं प्रगृह्य परिघं रणे

दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 7

तस्याभिपतमानस्य दूषणस्य स राघवः

द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 8

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि

परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 9

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः

विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 10

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे

साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 11

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः

संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 12

महाकपालो विपुलं शूलमुद्यम्य राक्षसः

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 13

दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः

तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 14

महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः

असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 15

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः

स पपात हतो भूमौ विटपीव महाद्रुमः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 16

ततः पावकसंकाशैर्हेमवज्रविभूषितैः

जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 17

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः

निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 18

रक्षसां तु शतं रामः शतेनैकेन कर्णिना

सहस्रं च सहस्रेण जघान रणमूर्धनि

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 19

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः

निपेतुः शोणितादिग्धा धरण्यां रजनीचराः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 20

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः

आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 21

क्षणेन तु महाघोरं वनं निहतराक्षसं

बभूव निरय प्रख्यं मांसशोणितकर्दमम्

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 22

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

हतान्येकेन रामेण मानुषेण पदातिना

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 23

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः

राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः

Valmiki Ramayana

Aranyakanda, Sarga 25, Verse 24

ततस्तु तद्भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा

रथेन रामं महता खरस्ततः; समाससादेन्द्र इवोद्यताशनिः