Valmiki Ramayana

Aranyakanda, Sarga 24

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 1

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्

ददर्शाश्रममागम्य खरः सह पुरःसरैः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 2

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्

रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 3

स खरस्याज्ञया सूतस्तुरगान्समचोदयत्

यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 4

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः

नर्दमाना महानादं सचिवाः पर्यवारयन्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 5

स तेषां यातुधानानां मध्ये रतो गतः खरः

बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 6

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः

रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 7

मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः

राक्षसाः समरे रामं निजघ्नू रोषतत्पराः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 8

ते बलाहकसंकाशा महानादा महाबलाः

अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 9

ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाः

शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 10

स तैः परिवृतो घोरै राघवो रक्षसां गणैः

तिथिष्विव महादेवो वृतः पारिषदां गणैः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 11

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 12

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे

रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 13

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः

बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 14

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः

एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 15

ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः

ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 16

दुरावारान्दुर्विषहान्कालपाशोपमान्रणे

मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 17

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया

आददू रक्षसां प्राणान्पाशाः कालकृता इव

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 18

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 19

असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्

विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 20

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च

बहून्सहस्ताभरणानूरून्करिकरोपमान्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 21

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः

भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 22

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः

रामेण न सुखं लेभे शुष्कं वनमिवाग्निना

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 23

केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान्

चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 24

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः

जहार समरे प्राणांश्चिच्छेद च शिरोधरान्

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 25

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः

खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 26

तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः

अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 27

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः

राममेवाभ्यधावन्त सालतालशिलायुधाः

Valmiki Ramayana

Aranyakanda, Sarga 24, Verse 28

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्

रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्