Valmiki Ramayana

Aranyakanda, Sarga 21

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 1

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा

उवाच रक्षसां मध्ये खरः खरतरं वचः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 2

तवापमानप्रभवः क्रोधोऽयमतुलो मम

न शक्यते धारयितुं लवणाम्भ इवोत्थितम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 3

न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्

आत्मा दुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 4

बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम्

अहं रामः सह भ्रात्रा नयामि यमसादनम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 5

परश्वधहतस्याद्य मन्दप्राणस्य भूतले

रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 6

सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम्

प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 7

तया परुषितः पूर्वं पुनरेव प्रशंसितः

अब्रवीद्दूषणं नाम खरः सेनापतिं तदा

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 8

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्

रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 9

नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्

लोकसिंहाविहाराणां बलिनामुग्रतेजसाम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 10

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्

सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 11

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च

शरांश्च चित्रान्खड्गांश्च शक्तीश्च विविधाः शिताः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 12

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्

वधार्थं दुर्विनीतस्य रामस्य रणकोविदः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 13

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्

सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 14

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्

हेमचक्रमसंबाधं वैदूर्यमय कूबरम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 15

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः

माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 16

ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम्

सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 17

निशाम्य तं रथगतं राक्षसा भीमविक्रमाः

तस्थुः संपरिवार्यैनं दूषणं च महाबलम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 18

खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान्

निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 19

ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम्

निर्जगाम जनस्थानान्महानादं महाजवम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 20

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः

खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 21

शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैः

गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 22

राक्षसानां सुघोराणां सहस्राणि चतुर्दश

निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 23

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान्

खरस्यापि रथः किंचिज्जगाम तदनन्तरम्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 24

ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान्

खरस्य मतमाज्ञाय सारथिः समचोदयत्

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 25

स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः

शब्देनापूरयामास दिशश्च प्रतिशस्तथा

Valmiki Ramayana

Aranyakanda, Sarga 21, Verse 26

प्रवृद्धमन्युस्तु खरः खरस्वनो; रिपोर्वधार्थं त्वरितो यथान्तकः

अचूचुदत्सारथिमुन्नदन्पुन;र्महाबलो मेघ इवाश्मवर्षवान्