Aranyakanda, Sarga 20, Verse 1
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः
उवाच व्यक्तता वाचा तामनर्थार्थमागताम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः
उवाच व्यक्तता वाचा तामनर्थार्थमागताम्
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः
घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः
हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ
अनाथवद्विलपसि किं नु नाथे मयि स्थिते
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश
निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम्
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः
तान्भूमौ पतितान्दृष्ट्वा क्षणेनैव महाबलान्
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी
विषादनक्राध्युषिते परित्रासोर्मिमालिनि
किं मां न त्रायसे मग्नां विपुले शोकसागरे
एते च निहता भूमौ रामेण निशितैः शरैः
ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च
रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्
यदि रामं ममामित्रमद्य त्वं न वधिष्यसि
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे
स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः
मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ
अपयाहि जनस्थानात्त्वरितः सहबान्धवः
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि
स हि तेजःसमायुक्तो रामो दशरथात्मजः
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता