Aranyakanda, Sarga 19, Verse 1
ततः शूर्पणखा घोरा राघवाश्रममागता
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शूर्पणखा घोरा राघवाश्रममागता
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया
ते रामं पर्णशालायामुपविष्टं महाबलम्
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च
तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम्
अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः
इमानस्या वधिष्यामि पदवीमागतानिह
वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्
राघवोऽपि महच्चापं चामीकरविभूषितम्
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ
युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः
तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ
यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः
संरक्तनयना घोरा रामं रक्तान्तलोचनम्
परुषा मधुराभाषं हृष्टादृष्टपराक्रमम्
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे
एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः
ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान्
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्
मुमोच राघवो बाणान्वज्रानिव शतक्रतुः
रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः
अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः
विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः
तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता
परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम्
सा नदन्ती महानादं जवाच्छूर्पणखा पुनः
उपगम्य खरं सा तु किंचित्संशुष्क शोणिता
पपात पुनरेवार्ता सनिर्यासेव वल्लरी
निपातितान्प्रेक्ष्य रणे तु राक्षसा;न्प्रधाविता शूर्पणखा पुनस्ततः
वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा