Aranyakanda, Sarga 18, Verse 1
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
बलविक्रमसंपन्ना कामगा कामरूपिणी
इमामवस्थां नीता त्वं केनान्तकसमा गता
देवगन्धर्वभूतानामृषीणां च महात्मनाम्
कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह
न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्
अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम्
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः
निहतस्य मया संख्ये शरसंकृत्तमर्मणः
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः
मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्
तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे
तरुणी रूपसंपन्ना सर्वाभरणभूषिता
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा
ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम्
इमामवस्थां नीताहं यथानाथासती तथा
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि
एष मे प्रथमः कामः कृतस्तात त्वया भवेत्
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्
मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ
इयं च रुधिरं तेषां भगिनी मम पास्यति
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः
शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा