Aranyakanda, Sarga 15, Verse 1
वसतस्तस्य तु सुखं राघवस्य महात्मनः
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
वसतस्तस्य तु सुखं राघवस्य महात्मनः
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम्
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत्
अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद
अलंकृत इवाभाति येन संवत्सरः शुभः
नीहारपरुषो लोकः पृथिवी सस्यमालिनी
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः
कृताग्रयणकाः काले सन्तो विगतकल्मषाः
प्राज्यकामा जनपदाः संपन्नतरगोरसाः
विचरन्ति महीपाला यात्रार्थं विजिगीषवः
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्
विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्
यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः
दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः
मृदुसूर्याः सनीहाराः पटुशीताः समारुताः
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम्
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः
शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्
रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते
ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते
सीतेव चातपश्यामा लक्ष्यते न तु शोभते
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः
शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः
दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः
संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ
अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला
वनानां शोभते भूमिर्निविष्टतरुणातपा
अवश्यायतमोनद्धा नीहारतमसावृताः
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः
हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम्
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्
जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः
नालशेषा हिमध्वस्ता न भान्ति कमलाकराः
अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः
तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून्
तपस्वी नियताहारः शेते शीते महीतले
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः
वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम्
अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः
कथं त्वपररात्रेषु सरयूमवगाहते
पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान्
धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः
प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः
संत्यज्य विविधान्सौख्यानार्यं सर्वात्मनाश्रितः