Aranyakanda, Sarga 14, Verse 1
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्
उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्
उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा
अयं पञ्चवटी देशः सौम्य पुष्पितकाननः
सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि
आश्रमः कतरस्मिन्नो देशे भवति संमतः
रमते यत्र वैदेही त्वमहं चैव लक्ष्मण
तादृशो दृश्यतां देशः संनिकृष्टजलाशयः
वनरामण्यकं यत्र जलरामण्यकं तथा
संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम्
एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः
सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत्
परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते
स्वयं तु रुचिरे देशे क्रियतामिति मां वद
सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः
विमृशन्रोचयामास देशं सर्वगुणान्वितम्
स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्
अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतः
इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि
इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता
यथाख्यातमगस्त्येन मुनिना भावितात्मना
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
नातिदूरे न चासन्ने मृगयूथनिपीडिता
मयूरनादिता रम्याः प्रांशवो बहुकन्दराः
दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः
सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः
सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः
नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः
चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः
चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः
इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्
इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः
पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्
सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम्
स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा
स्नात्वा पद्मानि चादाय सफलः पुनरागतः
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि
दर्शयामास रामाय तदाश्रमपदं कृतम्
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया
राघवः पर्णशालायां हर्षमाहारयत्परम्
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्
प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः
तस्मिन्देशे बहुफले न्यवसत्स सुखं वशी
कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च
अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः