Aranyakanda, Sarga 12, Verse 1
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः
व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा
एषा हि सुकुमारी च दुःखैश्च न विमानिता
प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता
यथैषा रमते राम इह सीता तथा कुरु
दुष्करं कृतवत्येषा वने त्वामनुगच्छती
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन
समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती
अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह
वैदेह्या चानया राम वत्स्यसि त्वमरिंदम
एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति
किं तु व्यादिश मे देशं सोदकं बहुकाननम्
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्
ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम्
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः
इतो द्वियोजने तात बहुमूलफलोदकः
देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह
रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ
तपसश्च प्रभावेन स्नेहाद्दशरथस्य च
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया
इह वासं प्रतिज्ञाय मया सह तपोवने
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते
स देशः श्लाघनीयश्च नातिदूरे च राघव
गोदावर्याः समीपे च मैथिली तत्र रंस्यते
प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च
भवानपि सदारश्च शक्तश्च परिरक्षणे
अपि चात्र वसन्रामस्तापसान्पालयिष्यसि
एतदालक्ष्यते वीर मधुकानां महद्वनम्
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह
सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ
तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया
गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्वकातरौ
यथोपदिष्टेन पथा महर्षिणा; प्रजग्मतुः पञ्चवटीं समाहितौ