Valmiki Ramayana

Aranyakanda, Sarga 11

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 1

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः

अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 2

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली

रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 3

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः

अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 4

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्

द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 5

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः

तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 6

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्

कृताञ्जलिरुवाचेदं रामागमनमञ्जसा

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 7

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च

प्रविष्टावाश्रमपदं सीतया सह भार्यया

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 8

द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ

यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 9

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्

वैदेहीं च महाभागामिदं वचनमब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 10

दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः

मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 11

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः

प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 12

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना

अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 13

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत्

क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 14

ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः

दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 15

तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्

प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 16

प्रविवेश ततो रामः सीतया सहलक्ष्मणः

प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 17

स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च

विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 18

सोमस्थानं भगस्थानं स्थानं कौबेरमेव च

धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 19

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं

अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 20

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः

औदार्येणावगच्छामि निधानं तपसामिमम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 21

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं

जग्राह परमप्रीतस्तस्य पादौ परंतपः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 22

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः

सीतया सह वैदेह्या तदा राम सलक्ष्मणः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 23

प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः

कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 24

अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च

वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 25

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः

उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 26

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्

दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 27

राजा सर्वस्य लोकस्य धर्मचारी महारथः

पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 28

एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्

पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 29

इदं दिव्यं महच्चापं हेमवज्रविभूषितम्

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा

Valmiki Ramayana

Aranyakanda, Sarga 11, Verse 30

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः

दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ