Valmiki Ramayana

Aranyakanda, Sarga 10

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 1

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा

पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 2

तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च

नदीश्च विविधा रम्या जग्मतुः सह सीतया

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 3

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः

सरांसि च सपद्मानि युतानि जलजैः खगैः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 4

यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः

महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 5

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे

ददृशुः सहिता रम्यं तटाकं योजनायतम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 6

पद्मपुष्करसंबाधं गजयूथैरलंकृतम्

सारसैर्हंसकादम्बैः संकुलं जलचारिभिः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 7

प्रसन्नसलिले रम्यतस्मिन्सरसि शुश्रुवे

गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 8

ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः

मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 9

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने

कौतूहलं महज्जातं किमिदं साधु कथ्यताम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 10

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा

प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 11

इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्

निर्मितं तपसा राम मुनिना माण्डकर्णिना

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 12

स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः

दशवर्षसहस्राणि वायुभक्षो जलाश्रय

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 13

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः

अब्रुवन्वचनं सर्वे परस्पर समागताः

अस्मकं कस्यचित्स्थानमेष प्रार्थयते मुनिः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 14

ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः

प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 15

अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः

नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 16

ताश्चैवाप्सरसः पञ्चमुनेः पत्नीत्वमागताः

तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 17

तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम्

रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 18

तासां संक्रीडमानानामेष वादित्रनिःस्वनः

श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 19

आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः

राघवः प्रतिजग्राह सह भ्रात्रा महायशाः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 20

एवं कथयमानस्य ददर्शाश्रममण्डलम्

कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 21

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः

तदा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 22

उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः

जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 23

येषामुषितवान्पूर्वं सकाशे स महास्त्रवित्

क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 24

क्वचिच्च चतुरो मासान्पञ्चषट्चापरान्क्वचित्

अपरत्राधिकान्मासानध्यर्धमधिकं क्वचित्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 25

त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्

तथा संवसतस्तस्य मुनीनामाश्रमेषु वै

रमतश्चानुकुल्येन ययुः संवत्सरा दश

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 26

परिसृत्य च धर्मज्ञो राघवः सह सीतया

सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 27

स तमाश्रममागम्य मुनिभिः प्रतिपूजितः

तत्रापि न्यवसद्रामः कंचित्कालमरिंदमः

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 28

अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम्

उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 29

अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः

वसतीति मया नित्यं कथाः कथयतां श्रुतम्

Valmiki Ramayana

Aranyakanda, Sarga 10, Verse 30

न तु जानामि तं देशं वनस्यास्य महत्तया

कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः