Valmiki Ramayana

Aranyakanda, Sarga 9

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 1

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया

श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 2

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः

कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 3

किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः

क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 4

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः

मां सीते स्वयमागम्य शरण्याः शरणं गताः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 5

वसन्तो धर्मनिरता वने मूलफलाशनाः

न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 6

काले काले च निरता नियमैर्विविधैर्वने

भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 7

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः

अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 8

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्

कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 9

प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला

यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः

किं करोमीति च मया व्याहृतं द्विजसंनिधौ

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 10

सर्वैरेव समागम्य वागियं समुदाहृता

राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः

अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 11

होमकाले तु संप्राप्ते पर्वकालेषु चानघ

धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 12

राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्

गतिं मृगयमाणानां भवान्नः परमा गतिः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 13

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्

चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 14

बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव

तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 15

तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः

रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 16

मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम्

ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 17

संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्

मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 18

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्

न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 19

तदवश्यं मया कार्यमृषीणां परिपालनम्

अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 20

मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः

परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते

सदृशं चानुरूपं च कुलस्य तव शोभने

Valmiki Ramayana

Aranyakanda, Sarga 9, Verse 21

इत्येवमुक्त्वा वचनं महात्मा; सीतां प्रियां मैथिल राजपुत्रीम्

रामो धनुष्मान्सहलक्ष्मणेन; जगाम रम्याणि तपोवनानि