Valmiki Ramayana

Aranyakanda, Sarga 6

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 1

रामस्तु सहितो भ्रात्रा सीतया च परंतपः

सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 2

स गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः

ददर्श विपुलं शैलं महामेघमिवोन्नतम्

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 3

ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः

काननं तौ विविशतुः सीतया सह राघवौ

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 4

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्

ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 5

तत्र तापसमासीनं मलपङ्कजटाधरम्

रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 6

रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः

तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 7

स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्

समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 8

स्वागतं खलु ते वीर राम धर्मभृतां वर

आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम्

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 9

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः

देवलोकमितो वीर देहं त्यक्त्वा महीतले

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 10

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः

इहोपयातः काकुत्स्थो देवराजः शतक्रतुः

सर्वाँल्लोकाञ्जितानाह मम पुण्येन कर्मणा

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 11

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया

मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 12

तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम्

प्रत्युवाचात्मवान्रामो ब्रह्माणमिव वासवः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 13

अहमेवाहरिष्यामि स्वयं लोकान्महामुने

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 14

भवान्सर्वत्र कुशलः सर्वभूतहिते रतः

आख्यातः शरभङ्गेन गौतमेन महात्मना

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 15

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः

अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 16

अयमेवाश्रमो राम गुणवान्रम्यतामिह

ऋषिसंघानुचरितः सदा मूलफलैर्युतः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 17

इममाश्रममागम्य मृगसंघा महायशाः

अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 18

तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः

उवाच वचनं धीरो विकृष्य सशरं धनुः

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 19

तानहं सुमहाभाग मृगसंघान्समागतान्

हन्यां निशितधारेण शरेणाशनिवर्चसा

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 20

भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 21

तमेवमुक्त्वा वरदं रामः संध्यामुपागमत्

अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत्

Valmiki Ramayana

Aranyakanda, Sarga 6, Verse 22

ततः शुभं तापसभोज्यमन्नं; स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्

ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य