Valmiki Ramayana

Aranyakanda, Sarga 5

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 1

शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः

अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 2

वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः

अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 3

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे

मुनयः सलिलाहारा वायुभक्षास्तथापरे

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 4

आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः

तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 5

सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः

शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 6

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्

ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 7

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः

प्रधानश्चासि नाथश्च देवानां मघवानिव

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 8

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च

पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 9

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्

अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 10

अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः

यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत्

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 11

युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव

नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 12

प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्

ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 13

यत्करोति परं धर्मं मुनिर्मूलफलाशनः

तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 14

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्

त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 15

एहि पश्य शरीराणि मुनीनां भावितात्मनाम्

हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 16

पम्पानदीनिवासानामनुमन्दाकिनीमपि

चित्रकूटालयानां च क्रियते कदनं महत्

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 17

एवं वयं न मृष्यामो विप्रकारं तपस्विनम्

क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 18

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः

परिपालय नो राम वध्यमानान्निशाचरैः

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 19

एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्

इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः

नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम्

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 20

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया

तस्य मेऽयं वने वासो भविष्यति महाफलः

तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्

Valmiki Ramayana

Aranyakanda, Sarga 5, Verse 21

दत्त्वा वरं चापि तपोधनानां; धर्मे धृतात्मा सहलक्ष्मणेन

तपोधनैश्चापि सहार्य वृत्तः; सुतीष्क्णमेवाभिजगाम वीरः