Valmiki Ramayana

Aranyakanda, Sarga 1

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 1

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्

ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 2

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्

यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 3

शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा

पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 4

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः

समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 5

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्

बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 6

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया

फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 7

सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम्

पुण्यैश नियताहारैः शोभितं परमर्षिभिः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 8

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्

ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 9

तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्

अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 10

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः

अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 11

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः

मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 12

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्

ददृशुर्विस्मिताकारा रामस्य वनवासिनः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 13

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव

आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 14

अत्रैनं हि महाभागाः सर्वभूतहिते रताः

अतिथिं पर्णशालायां राघवं संन्यवेशयन्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 15

ततो रामस्य सत्कृत्य विधिना पावकोपमाः

आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 16

मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः

निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 17

धर्मपालो जनस्यास्य शरण्यश्च महायशाः

पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 18

इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव

राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 19

ते वयं भवता रक्ष्या भवद्विषयवासिनः

नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 20

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः

रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 21

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्

अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्

Valmiki Ramayana

Aranyakanda, Sarga 1, Verse 22

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः

न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्