Ayodhyakanda, Sarga 110, Verse 1
सा त्वेवमुक्ता वैदेही अनसूयानसूयया
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा त्वेवमुक्ता वैदेही अनसूयानसूयया
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे
नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे
विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः
अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत्
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः
स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः
तामेव नृपनारीणामन्यासामपि वर्तते
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः
मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्
आगच्छन्त्याश्च विजनं वनमेवं भयावहम्
समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम
प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ
अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम्
नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि
पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते
तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्
वरिष्ठा सर्वनारीणामेषा च दिवि देवता
रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत
नियमैर्विविधैराप्तं तपो हि महदस्ति मे
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते
उपपन्नं च युक्तं च वचनं तव मैथिलि
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम्
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत्
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम्
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च
अङ्गरागं च वैदेहि महार्हमनुलेपनम्
मया दत्तमिदं सीते तव गात्राणि शोभयेत्
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे
शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम्
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्
प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी
श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्
तथा सीतामुपासीनामनसूया दृढव्रता
वचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम्
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना
राघवेणेति मे सीते कथा श्रुतिमुपागता
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्
क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः
पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत्
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः
अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल
एवमेतन्नरपते धर्मेण तनया तव