Ayodhyakanda, Sarga 106, Verse 1
स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः
बिडालोलूकचरितामालीननरवारणाम्
तिमिराभ्याहतां कालीमप्रकाशां निशामिव
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्
ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम्
लीनमीनझषग्राहां कृशां गिरिनदीमिव
विधूमामिव हेमाभामध्वराग्निसमुत्थिताम्
हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्
हतप्रवीरामापन्नां चमूमिव महाहवे
सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्
प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम्
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव
गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम्
गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम्
प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम्
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव
संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्
उपयुक्तोदकां भग्नां प्रपां निपतितामिव
विपुलां विततां चैव युक्तपाशां तरस्विनाम्
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्
सहसा युद्धशौण्डेन हयारोहेण वाहिताम्
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम्
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव
भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजः
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्
किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते
यथापुरमयोध्यायां गीतवादित्रनिःस्वनः
वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः
धूपितागरुगन्धश्च न प्रवाति समन्ततः
यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः
प्रमत्तगजनादश्च महांश्च रथनिःस्वनः
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते
तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः
संपतद्भिरयोध्यायां न विभान्ति महापथाः
एवं बहुविधं जल्पन्विवेश वसतिं पितुः
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव