Ayodhyakanda, Sarga 102, Verse 1
क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह
जाबालिरपि जानीते लोकस्यास्य गतागतिम्
निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत्
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह
जाबालिरपि जानीते लोकस्यास्य गतागतिम्
निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत्
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे
सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह
स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम्
असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्
इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतः
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्
बाणस्य तु महाबाहुरनरण्यो महायशाः
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे
अनरण्ये महाराजे तस्करो वापि कश्चन
अनरण्यान्महाबाहुः पृथू राजा बभूव ह
तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत
स सत्यवचनाद्वीरः सशरीरो दिवं गतः
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः
धुन्धुमारान्महातेजा युवनाश्वो व्यजायत
युवनाश्वसुतः श्रीमान्मान्धाता समपद्यत
मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्
यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः
भरतात्तु महाबाहोरसितो नाम जायत
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः
हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः
तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः
स च शैलवरे रम्ये बभूवाभिरतो मुनिः
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत्
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि
ततः सा गृहमागम्य देवी पुत्रं व्यजायत
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया
गरेण सह तेनैव जातः स सगरोऽभवत्
स राजा सगरो नाम यः समुद्रमखानयत्
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः
असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम्
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत्
अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान्
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः
भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः
ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः
कल्माषपादः सौदास इत्येवं प्रथितो भुवि
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः
यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत्
शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनः
सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः
प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः
अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः
नहुषस्य च नाभागः पुत्रः परमधार्मिकः
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ
अजस्य चैव धर्मात्मा राजा दशरथः सुतः
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः
तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते