Ayodhyakanda, Sarga 98, Verse 1
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः
शोचतामेव रजनी दुःखेन व्यत्यवर्तत
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः
शोचतामेव रजनी दुःखेन व्यत्यवर्तत
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्
तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत्
भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत्
सान्त्विता मामिका माता दत्तं राज्यमिदं मम
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे
दुरावारं त्वदन्येन राज्यखण्डमिदं महत्
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते
राम तेन तु दुर्जीवं यः परानुपजीवति
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि
यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः
प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम्
तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः
अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्
रामः कृतात्मा भरतं समाश्वासयदात्मवान्
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
यथा फलानं पक्वानां नान्यत्र पतनाद्भयम्
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्
यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति
तथावसीदन्ति नरा जरामृत्युवशं गताः
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः
आत्मानमनुशोच त्वं किमन्यमनुशोचसि
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति
गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः
यथा काष्ठं च काष्ठं च समेयातां महार्णवे
समेत्य च व्यपेयातां कालमासाद्य कंचन
एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः
नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः
अहमप्यागमिष्यामि पृष्ठतो भवतामिति
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः
वयसः पतमानस्य स्रोतसो वानिवर्तिनः
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः