Ayodhyakanda, Sarga 97, Verse 1
तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी
यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि
इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्
आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप
चकार सुमहत्पापमिदमात्मयशोहरम्
सा राज्यफलमप्राप्य विधवा शोककर्शिता
पतिष्यति महाघोरे निरये जननी मम
तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि
अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव
इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद
राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु
भवत्वविधवा भूमिः समग्रा पतिना त्वया
शशिना विमलेनेव शारदी रजनी यथा
एभिश्च सचिवैः सार्धं शिरसा याचितो मया
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि
तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम्
पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे
एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः
रामस्य शिरसा पादौ जग्राह भरतः पुनः
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्
कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि
यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव
माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा
एवं कृत्वा महाराजो विभागं लोकसंनिधौ
व्यादिश्य च महातेजा दिवं दशरथो गतः
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि
चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना
यदब्रवीन्मां नरलोकसत्कृतः; पिता महात्मा विबुधाधिपोपमः
तदेव मन्ये परमात्मनो हितं; न सर्वलोकेश्वरभावमव्ययम्