Ayodhyakanda, Sarga 95, Verse 1
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ
ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः
स समृद्धां मया सार्धमयोध्यां गच्छ राघव
अभिषेचय चात्मानं कुलस्यास्य भवाय नः
राजानं मानुषं प्राहुर्देवत्वे संमतो मम
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते
दिवमार्य गतो राजा यायजूकः सतां मतः
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ
प्रियेण किल दत्तं हि पितृलोकेषु राघव
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्
राघवो भरतेनोक्तां बभूव गतचेतनः
वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः
वने परशुना कृत्तस्तथा भुवि पपात ह
तथा हि पतितं रामं जगत्यां जगतीपतिम्
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्
उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्
किं नु तस्य मया कार्यं दुर्जातेन महात्मना
यो मृतो मम शोकेन न मया चापि संस्कृतः
अहो भरत सिद्धार्थो येन राजा त्वयानघ
शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः
निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम्
निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे
समाप्तवनवासं मामयोध्यायां परंतप
को नु शासिष्यति पुनस्ताते लोकान्तरं गते
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः
उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः
सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा
ततो नित्यानुगस्तेषां विदितात्मा महामतिः
मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान्
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्
सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति
प्रगृह्य च महीपालो जलपूरितमञ्जलिम्
दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्
एतत्ते राजशार्दूल विमलं तोयमक्षयम्
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु
ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे
न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत्