Ayodhyakanda, Sarga 94, Verse 1
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः
अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः
अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि
चिरस्य बत पश्यामि दूराद्भरतमागतम्
दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः
कच्चिद्दशरथो राजा कुशली सत्यसंगरः
राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः
स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते
तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती
सुखिनी कच्चिदार्या च देवी नन्दति कैकयी
कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
हुतं च होष्यमाणं च काले वेदयते सदा
इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम्
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे
कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः
मन्त्रो विजयमूलं हि राज्ञां भवति राघव
सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे
कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम्
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्
क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव
कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः
कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः
त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत्
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः
अथ वाप्ययुतान्येव नास्ति तेषु सहायता
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः
राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम्
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते
कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः
कचिद्बलस्य भक्तं च वेतनं च यथोचितम्
संप्राप्तकालं दातव्यं ददासि न विलम्बसे
कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः
भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः
कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान्
यथोक्तवादी दूतस्ते कृतो भरत पण्डितः
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः