Ayodhyakanda, Sarga 93, Verse 1
निविष्टायां तु सेनायामुत्सुको भरतस्तदा
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
निविष्टायां तु सेनायामुत्सुको भरतस्तदा
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्
ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय
इति तरितमग्रे स जागम गुरुवत्सलः
सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत
रामदार्शनजस्तर्षो भरतस्येव तस्य च
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा
काष्टानि चावभग्नानि पुष्पाण्यवचितानि च
ददर्श च वने तस्मिन्महतः संचयान्कृतान्
मृगाणां महिषाणां च करीषैः शीतकारणात्
गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्
यमेवाधातुमिच्छन्ति तापसाः सततं वने
तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः
अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः
जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम्
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः
सरान्कामान्परित्यज्य वने वसति राघवः
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्
रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः
एवं स विलपंस्तस्मिन्वने दशरथात्मजः
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे
शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः
रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः
शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव
महारजतवासोभ्यामसिभ्यां च विराजिताम्
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्
गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः
अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव
प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम्
ददर्श भरतस्तत्र पुण्यां रामनिवेशने
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्
उटजे राममासीनां जटामण्डलधारिणम्
तं तु कृष्णाजिनधरं चीरवल्कलवाससं
ददर्श राममासीनमभितः पावकोपमम्
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्
पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम्
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्
स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च
तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः
दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा
अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत्
यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः