Ayodhyakanda, Sarga 92, Verse 1
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्
निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्
क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः
लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति
यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति
यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति
कृतकृत्या महाभागा वैदेही जनकात्मजा
भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः
यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्
यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः
एवमुक्त्वा महातेजा भरतः पुरुषर्षभः
पद्भ्यामेव महातेजाः प्रविवेश महद्वनम्
स तानि द्रुमजालानि जातानि गिरिसानुषु
पुष्पिताग्राणि मध्येन जगाम वदतां वरः
स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्
तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः
स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनोपपन्नम्
गुहेन सार्धं त्वरितो जगाम; पुनर्निवेश्यैव चमूं महात्मा