Ayodhyakanda, Sarga 91, Verse 1
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्
किमत्र धनुषा कार्यमसिना वा सचर्मणा
महेष्वासे महाप्राज्ञे भरते स्वयमागते
प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति
अस्मासु मनसाप्येष नाहितं किंचिदाचरेत्
विप्रियं कृतपूर्वं ते भरतेन कदा न किम्
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते
कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि
भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्
उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह
एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः
वनवासमनुध्याय गृहाय प्रतिनेष्यति
इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम्
एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ
स एष सुमहाकायः कम्पते वाहिनीमुखे
नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः
अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः
भरतेनाथ संदिष्टा संमर्दो न भवेदिति
समन्तात्तस्य शैलस्य सेनावासमकल्पयत्
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला
सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम्
प्रसादनार्थं रघुनन्दनस्य; विरोचते नीतिमता प्रणीता