Ayodhyakanda, Sarga 90, Verse 1
तथा तत्रासतस्तस्य भरतस्योपयायिनः
सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा तत्रासतस्तस्य भरतस्योपयायिनः
सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः
स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः
तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम्
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम्
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया
भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः
राजा वा राजमात्रो वा मृगयामटते वने
अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम्
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्
रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः
तामश्वगजसंपूर्णां रथध्वजविभूषिताम्
शशंस सेनां रामाय वचनं चेदमब्रवीत्
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम्
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह
अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम्
एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत्
दिधक्षन्निव तां सेनां रुषितः पावको यथा
संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः
एष वै सुमहाञ्श्रीमान्विटपी संप्रकाशते
विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे
भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान्
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे
अथ वेहैव तिष्ठावः संनद्धावुद्यतायुधौ
अपि नौ वशमागच्छेत्कोविदारध्वजो रणे
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्
त्वया राघव संप्राप्तं सीतया च मया तथा
यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतीम्
संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे
भरतस्य वधे दोषं नाहं पश्यामि राघव
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते
एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम्
अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका
मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम्
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्
कलुषेणाद्य महता मेदिनी परिमुच्यताम्
अद्येमं संयतं क्रोधमसत्कारं च मानद
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः
भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम्
शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा
श्वापदाः परिकर्षन्तु नराश्च निहतान्मया
शराणां धनुषश्चाहमनृणोऽस्मि महावने
ससैन्यं भरतं हत्वा भविष्यामि न संशयः